/
haravali.txt
642 lines (641 loc) · 71.7 KB
/
haravali.txt
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176
177
178
179
180
181
182
183
184
185
186
187
188
189
190
191
192
193
194
195
196
197
198
199
200
201
202
203
204
205
206
207
208
209
210
211
212
213
214
215
216
217
218
219
220
221
222
223
224
225
226
227
228
229
230
231
232
233
234
235
236
237
238
239
240
241
242
243
244
245
246
247
248
249
250
251
252
253
254
255
256
257
258
259
260
261
262
263
264
265
266
267
268
269
270
271
272
273
274
275
276
277
278
279
280
281
282
283
284
285
286
287
288
289
290
291
292
293
294
295
296
297
298
299
300
301
302
303
304
305
306
307
308
309
310
311
312
313
314
315
316
317
318
319
320
321
322
323
324
325
326
327
328
329
330
331
332
333
334
335
336
337
338
339
340
341
342
343
344
345
346
347
348
349
350
351
352
353
354
355
356
357
358
359
360
361
362
363
364
365
366
367
368
369
370
371
372
373
374
375
376
377
378
379
380
381
382
383
384
385
386
387
388
389
390
391
392
393
394
395
396
397
398
399
400
401
402
403
404
405
406
407
408
409
410
411
412
413
414
415
416
417
418
419
420
421
422
423
424
425
426
427
428
429
430
431
432
433
434
435
436
437
438
439
440
441
442
443
444
445
446
447
448
449
450
451
452
453
454
455
456
457
458
459
460
461
462
463
464
465
466
467
468
469
470
471
472
473
474
475
476
477
478
479
480
481
482
483
484
485
486
487
488
489
490
491
492
493
494
495
496
497
498
499
500
501
502
503
504
505
506
507
508
509
510
511
512
513
514
515
516
517
518
519
520
521
522
523
524
525
526
527
528
529
530
531
532
533
534
535
536
537
538
539
540
541
542
543
544
545
546
547
548
549
550
551
552
553
554
555
556
557
558
559
560
561
562
563
564
565
566
567
568
569
570
571
572
573
574
575
576
577
578
579
580
581
582
583
584
585
586
587
588
589
590
591
592
593
594
595
596
597
598
599
600
601
602
603
604
605
606
607
608
609
610
611
612
613
614
615
616
617
618
619
620
621
622
623
624
625
626
627
628
629
630
631
632
633
634
635
636
637
638
639
640
641
;METADATA
;title{हारावली}
;author{पुरुषोत्तमदेव}
;bookFullName{श्रीमदमरसिंहविरचितो नामलिङ्गानुशासनाभिधः अमरकोषः । महामहोपाध्यायपण्डित-श्रीशिवदत्तात्मजविष्णुदत्तशर्मसंगृहीतया नामचन्द्रिकाख्यया व्याख्यया विभूषितः, सटीक 'त्रिकाण्डशेष-हारावली-द्विरूपकोषद्वय-एकाक्षरकोश' इति कोषपञ्चकसमेतः ।}
;bookSeriesDetails{}
;editor{महामहोपाध्याय पं० श्रीशिवदत्तशास्त्रिमहोदयैर्मुहुस्संशोध्य टिप्पण्यादिभिर्योजितोऽप्यन्यैर्महानुभविविद्वन्महानुभावैर्बहुशः संशोधितः}
;editorQualifications{महामहोपाध्याय}
;publisher{Khemraj Shrikrishnadas}
;pressDetails{Shri Venkateshwar Steam Press, 7, Khetwadi Khambata Lane, Bombay 4.}
;publicationYear{1986 V.S.}
;dataEntryBy{Dr. Dhaval Patel}
;dataEntryEmail{drdhaval2785@gmail.com}
;proofReadBy{Dr. Dhaval Patel}
;proofReaderEmail{drdhaval2785@gmail.com}
;annotatedBy{}
;annotatorEmail{}
;version{0.1.0}
;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.}
;projectWebPage{http://github.com/sanskrit-kosha/kosha}
;emailTo{drdhaval2785@gmail.com}
;description{}
;shortCode{HVPD}
;funding{Shree Ramkrishna Knowledge Foundation.}
;licence{GNU GPL v3.0}
;credits{1. SRKKF for funding. 2. Acharya Shri KailasaSagarsuri Gyanmandir for providing us the scanned book to digitize. 3. Dr. Dhaval Patel for spending time to do data entry and to proofread the data.}
;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.}
;editorialChanges{}
;nymic{homo}
;pagenum{true}
;linenum{false}
;chapterArrangements{kanda}
;newVerseNumbersAtChangeOf{none}
;newLineNumbersAtChangeOf{none}
;version0.0.1{19 March 2019}
;version0.0.2{19 March 2019}
;version0.0.3{19 March 2019}
;version0.0.4{13 June 2019}
;version0.1.0{13 June 2019}
;version0.2.0{}
;version0.2.1{}
;version0.2.2{}
;version0.3.0{}
;version0.3.1{}
;version0.3.2{}
;version0.3.3{}
;version0.3.4{}
;version0.3.5{}
;version0.3.6{}
;version1.0.0{}
;CONTENT
श्रीगणेशाय नमः ।
अथ हारावली ।
;p{0397}
;k{श्लोकावधिः}
अथ श्लोकावधिः ।
;preface{
भुजगपतिविमुक्तस्वच्छनिर्मोकवल्लीविलसितमनुकुर्वन्यस्य गङ्गाप्रवाहः ।
शिरसि सरसभास्वन्मालतीदामलक्ष्मीं लपयति हिमगौरः सोऽस्तु वः साध्यसिद्ध्यै ॥ १ ॥
कल्पावसानसमये स्थितये कवीनां देहान्तरं किमपि या सृजति प्रसन्ना ।
यस्याः प्रसादपरमाणुरपि प्रतिष्ठामभ्येति कामपि नमामि सरस्वतीं ताम् ॥ २ ॥
निर्मत्सराः सुकृतिनः खलु ये विविच्य कर्णे गुणस्य कणमप्यवतंसयन्ति ।
येषां मनो न रमते परदोषवादे ते केचिदेव विरला भुवि संचरन्ति ॥ ३ ॥
मुक्ताभयाऽतिमधुरा मसृणाऽवदातच्छायाऽधिरागतरलाऽमलसद्गुणश्रीः ।
साध्वी सतां भजतु कण्ठमसौ प्रियेव हारावली विरचिता पुरुषोत्तमेन ॥ ४ ॥
किं नैव सन्ति सुधियामभिधानकोशाः किन्तु प्रसिद्धविषयव्यवहारभाजः ।
गोष्ठीषु वादपरमोहफलासु केषां हारावली न विदधाति विदग्धिमानम् ॥ ५ ॥
एकं तमेव गणयन्ति परं विदग्धा वाचां विदग्धिमनि मज्जति यस्य लोकः ।
गोष्ठीषु यः परमशाब्दिकदुर्गमासु दुर्बोधशब्दगतसंशयमुच्छिनत्ति ॥ ६ ॥
आ व्याधशब्दतः श्लोकैरर्धैरा तलिनात्ततः ।
शब्दाः पादैर्विबोद्धव्याः प्रागनेकार्थतस्ततः ॥ ७ ॥
}
विषमनयनशङ्कू चन्द्रमौलिर्भगाली वृषभपतिगणेशौ रेरिहाणो वृषाङ्कः ।
त्रिपुरदहनशूलिस्थाणुखट्वाङ्गिहिण्डिप्रियतमशितिकण्ठा भर्ग्यकल्माषकण्ठौ ॥ ८ ॥
शतधामा चतुष्पाणिः पृश्निगर्भो गदाग्रजः ।
गदी कौस्तुभवक्षाश्च पाञ्चजन्यधरोऽच्युतः ॥ ९ ॥
वैनतेयः पक्षिसिंहः शाल्मली हरिवाहनः ।
अमृताहरणस्तार्क्ष्यो नागाशनखगेश्वरौ ॥ १० ॥
खगपतङ्गवियन्मणिभानवो हरिभगेननिदाघकराद्रयः ।
किरणमालिविरोचनहेलयो दिनमणिस्तरणिश्च दिनप्रणीः ॥ ११ ॥
श्रुतश्रवोऽनुजः क्रोडो मन्दश्छायासुतः शनिः ।
सप्तार्चिर्नीलवसनः पातङ्गिः क्रूरलोचनः ॥ १२ ॥
दाक्षायणीपतिबलक्षगुपक्षजन्मतुङ्गीशरात्रिमणिदर्शविपत्सुधाङ्गाः ।
राजा समुद्रनवनीततमोनुदौ मा ग्लौरिन्दुरेनतिलको हरिरोहिणीशौ ॥ १३ ॥
महामृगः पुष्करिदीर्घमारुतौ विलोमजिह्वो जलकाङ्क्षिसिन्धुरौ ।
द्विपायिसूर्यश्रुतिकुम्भिसामजा महामदः पेचकिपद्मिपीलवः ॥ १४ ॥
दर्वीकरो विषधरः श्वसनाशनोऽहिश्चक्री फणाभरविषायुधदीर्घपृष्ठाः ।
कुभीनसद्विरसनौ समकोलदंष्ट्रिगोकर्णकुण्डलिलतारसना विषास्यः ॥ १५ ॥
मयाऽस्योपकृतं पूर्वमयं चोपकरिष्यति ।
इति यः क्रियते संधिः प्रतीहारः स उच्यते ॥ १६ ॥
;p{0398}
शेषमक्षरमादाय प्रतिश्लोकं क्रमेण यत् ।
अन्योऽन्यं पठ्यते श्लोकः प्रतिमालेति सा मता ॥ १७ ॥
नभश्चरो वायुदारुर्वनदो गगनध्वजः ।
व्योमधूमो जलमसिः खतमालः पयोधरः ॥ १८ ॥
हर्षादुत्सवकाले यदलंकाराम्बरादिकम् ।
आकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ॥ १९ ॥
सुरते कर्णदंशेषु यच्च देशीयभाषया ।
दम्पत्योर्जल्पितं मन्दं मन्मनं तद्विदुर्बुधाः ॥ २० ॥
यद्दीयते तु देवेभ्यो मनोराज्यस्य सिद्धये ।
उपयाचितकं दिव्यदोहदं तद्विदुर्बुधाः ॥ २१ ॥
नक्तं निर्गत्य यत्किंचिच्छुभाशुभकरं वचः ।
श्रूयते तद्विदुर्धीरा दैवप्रश्नमुपश्रुतिम् ॥ २२ ॥
वृद्धसूत्रकमित्याहुरिन्द्रतूलं मनीषिणः ।
ग्रीष्महासं वंशकफं वाततूलं मरुद्ध्वजम् ॥ २३ ॥
दशेन्धनो गृहमणिः स्नेहाशः कज्जलध्वजः ।
जटाज्वालो दशाकर्षी कथितो बहुदृश्वभिः ॥ २४ ॥
गोमयच्छत्त्रिकामाहुर्दिलीरं च शिलीन्ध्रकम् ।
उर्व्यङ्गं च वशारोहं गोलासमपरे विदुः ॥ २५ ॥
हिमवान् हेमकूटश्च निषधो मेरुरेव च ।
चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्वताः ॥ २६ ॥
;c{इति श्लोकावधिः ।}
;k{अर्धश्लोकावधिः}
व्याधो मृगवधाजीवो निषादः पुल्कसः प्लवः ।
बालवायजमिच्छन्ति वैदूर्यमणिमुत्तयाः ॥ २७ ॥
कालग्रन्थिः समाः संवन्मासमानो युगांसकः ।
मासो वर्षांशकः श्रामो वर्षाङ्गः स्यादहर्गणः ॥ २८ ॥
मदयोगविधानं तु व्यस्तारं करिणां विदुः ।
पृष्ठवंशस्य यन्मांसं तल्पनं तत्प्रचक्षते ॥ २९ ॥
कर्णवेधनिका प्रोक्ता नालिकेति विषाणिनाम् ।
प्रवेष्टमन्तःस्वेदानां दन्तमांसं विदुर्बुधाः ॥ ३० ॥
कुमारचर्या गर्भिण्याः परिचर्याऽभिधीयते ।
नवोढा वस्त्रमानन्दपटमिच्छन्ति सूरयः ॥ ३१ ॥
कर्णीसुतो मूलदेवो मूलभद्रः कुलाङ्कुरः ।
ज्येष्ठामूलीयमिच्छन्ति मासमाषाढपूर्वजम् ॥ ३२ ॥
नित्यकर्मसमाचारनिष्ठुरत्वे कदुङ्कता ।
वैरानुबन्धो धीमद्भिरुपनाहोऽभिधीयते ॥ ३३ ॥
स्यात्पालिका कुन्तलिका दध्यादिच्छेदनी तु या ।
वैशाखो दधिचारः स्यात्तक्राटः करघर्षणः ॥ ३४ ॥
स्यादाषाढभवो भौमो नवार्चिर्गगनोल्मुकः ।
पञ्चार्चिश्च श्रविष्ठाजो ज्ञ एकाङ्गः प्रहर्षणः ॥ ३५ ॥
दीदिविर्द्वादशार्चिः स्याज्जीवः प्राक्फल्गुनीभवः ।
काव्यो दैत्यपुरोधाः स्यात्षोडशार्चिर्मघाभवः ॥ ३६ ॥
उपप्लवोऽकचः केतुराश्लेषाभव आहिकः ।
ज्योतीरथो ग्रहाधारो ध्रुव उत्तानपादजः ॥ ३७ ॥
स्वर्भानुं ग्रहकक्कोलं विदुरभ्रपिशाचकम् ।
वनीयको याचनको वसुकीटो मुखम्पचः ॥ ३८ ॥
जायमानविषाणाग्रे कटाहो महिषीशिशौ ।
छेदो हस्तेन सस्यानां कटभङ्ग उदाहृतः ॥ ३९ ॥
;p{0399}
जलत्रा जङ्गमकुटी कावारी मूर्द्धकर्परी ।
उष्णवारणमुत्कूटश्चक्राङ्गं च पुटोटजम् ॥ ४० ॥
मुनीनां च चिताकुट्यां पर्णोटजसहोटजौ ।
कारोत्तरश्च वीनाही प्रहिरन्धुर्जलाम्बिका ॥ ४१ ॥
जलकूपी जलाष्ठीली तलकं पुष्करिण्यपि ।
आसन्नास्तमयः कश्चिदुपधूपित इष्यते ॥ ४२ ॥
तत्क्षणादित्यमुक्तां तु वदन्त्यङ्गारिणीं दिशम् ।
अङ्गारितं पलाशानां कलिकानिर्गमो भवेत् ॥ ४३ ॥
गान्धारं रक्तचूर्णं तु सिन्दूरं रक्तवालुकम् ।
कुसृत्या विभवान्वेषी पार्श्विकः सन्धिजीवकः ॥ ४४ ॥
अधश्चरो भवेच्चौरः कुसुमालः कुजम्भलः ।
प्रोक्तः करिकुसुम्भस्तु नागकेसरचूर्णके ॥ ४५ ॥
बर्बरं बर्बरीकं च बर्बरीत्यपि चेष्यते ।
अभावात्स्त्रीपरित्यागस्तुरगब्रह्मचर्यकम् ॥ ४६ ॥
यमिनां यद्रतं गोप्यं तत्खञ्जनतरं विदुः ।
स्यादाचामनकः प्रोण्ठः कटकोलः पतद्ग्रहः ॥ ४७ ॥
मेला मन्दा मसिमणिर्मसिधानी मसिप्रसूः ।
बालोपरीतं तु विदुः पञ्चावटमुरस्कटम् ॥ ४८ ॥
नारीणां मण्डलीनृत्यं बुधा हल्लीषकं विदुः ।
मारीचो याजकगजो राजहस्ती मदोत्कटः ॥ ४९ ॥
अलङ्कारसुवर्णं यत्तच्छृङ्गीकनकं मतम् ।
रतिलक्षं निधुवनं संयोजनमिति स्मृतम् ॥ ५० ॥
जीमूतकुटकुट्टीरकुट्टाराः कन्दराकरः ।
उद्देशो गण्डकूपस्तु पर्वतस्याभिधीयते ॥ ५१ ॥
वासिता धेनुका चैव वशा च करिणी मता ।
ब्रह्माग्रभूः क्रतुपशुः सिंहविक्रान्तवाजिनौ ॥ ५२ ॥
समुद्रगा निर्झरिणी तलोदा जवालिनी शैवलिनी तरङ्गिणी ।
विपाठकादम्बकपत्रवाहाः पत्री खगो वीरतरोऽस्त्रकण्टकः ॥ ५३ ॥
वर्णदूतः स्वस्तिमुखो लेखो वाचिकहारकः ।
लेखो निबध्यते येन तत्र काचनकाऽभिधा ॥ ५४ ॥
क्षाराछं माणिमन्थं च विदुः सिन्धूपलं बुधाः ।
पिशितं पललं मांसं क्रव्यमामिषमुद्घसम् ॥ ५५ ॥
पारावारमहाकच्छौ महीप्राचीरदारदौ ।
जिह्वादरः कीकशास्यश्चञ्चुमत्तरुशायिनौ ॥ ५६ ॥
इन्द्रक्रीडासरः प्राज्ञैर्नन्दीसर इति स्मृतम् ।
धूमोर्णापतिरुद्दिष्टो यमो महिषवाहनः ॥ ५७ ॥
पयोघनो मेघकफो घनोपलो मेघास्थिबीजोदकतोयडिम्भाः ।
शम्पाऽचिराभा चपला छटाभा ह्रादिन्यधीरा घनवल्लिका च ॥ ५८ ॥
पादालिन्दी तरण्डा नौस्तरणिस्तारणिस्तरिः ।
किलाटः शोषितक्षीरपिण्डः सूरिभिरिष्यते ॥ ५९ ॥
कालायसमयस्तीक्ष्णं गिरिसारं च शस्तकम् ।
हय्यङ्गवीनं रसजं मन्थजं च कलम्बुटम् ॥ ६० ॥
एकशफाङ्घ्रिकं बन्धमाहुर्दामाञ्चलं बुधाः ।
वेत्ता स्त्रीपुंसयोश्चिह्नं सामुद्रिक उदाहृतः ॥ ६१ ॥
तिन्तिलिकाऽस्थिभिर्द्यूतक्रीडायां चुञ्चुलिर्भवेत् ।
वक्रा ललाटगास्तिस्त्रो भस्मरेखास्त्रिपुण्ड्रकम् ॥ ६२ ॥
हाला कामालिका मण्डा धीरा स्यान्मदनी च माध्वी च ।
आहुश्चषकं तु पानपात्रं पारीमप्यनुतर्षणं कवीन्द्राः ॥ ६३ ॥
;p{0400}
कुशुम्भः करकश्चैत्यमुखः कमण्डलुः स्मृतः ।
असहायो नर्तकस्तु तालावचर इष्यते ॥ ६४ ॥
कथितः कौमुदीवृक्षो दीपवृक्षः शिखातरुः ।
कोजागरे तथा सद्भिः कौमुदीचार इष्यते ॥ ६५ ॥
समुद्रगृहमित्याहुर्जलमन्त्रनिकेतनम् ।
प्रेतादिभिर्गृहीतो यः स आविष्टो भ्रमन्बहिः ॥ ६६ ॥
हिममिन्द्राग्निधूमश्च खबाष्पो रजनीजलम् ।
ये शिवायतनोत्सृष्टास्ते सन्ध्याबलयो वृषाः ॥ ६७ ॥
विषाक्तास्त्रहतस्याहुः पशोर्मांसं तु गृञ्जनम् ।
धूमिका धूममहिषी हिमझण्टिः कुहेलिका ॥ ६८ ॥
पोताच्छादनमाहुरक्तस्तुवरकमथवस्त्रकुट्टिमं कवयः ।
तन्त्रविमुक्तं वासो निष्प्रवणिं निष्प्रवाणिं च ॥ ६९ ॥
महाघोषं क्रयारोहं हट्टं पण्याजिरं विदुः ।
बहुमानुषसंकीर्णं निर्घटं च कराङ्गणम् ॥ ७० ॥
शालभञ्जी दारुगर्भा कुरण्टी दारुपुत्रिका ।
कादम्बिनी नवो मेघः काली स्यात्कालिकाऽपि च ॥ ७१ ॥
क्रोशध्वनिः क्रोशतालो ढक्का विजयमर्दलः ।
स्यात्प्रतिपत्तिः पटहो लम्पापटह इत्यपि ॥ ७२ ॥
कुकूलं कायवलनं तनुत्रं दंशनं विदुः ।
शिरस्त्रं शीर्षरक्षं च शीर्षण्यं शीर्षकं च तत् ॥ ७३ ॥
स्याज्जालिका लोहमयी जालप्रायाऽङ्गरक्षिणी ।
पन्नद्ध्री पादविरजाः कोशी पादरथी भवेत् ॥ ७४ ॥
रुचकं लवणं क्षारं तीक्ष्णं जलरसं विदुः ।
ज्योतिर्बीजं च खद्योतं ध्वान्तोन्मेषं तमोमणिः ॥ ७५ ॥
जलशूकरजलजिह्वौजलकण्टकवार्भटौ तथा नक्रे ।
जलनकुलजलविडालौ नीराखुजलप्लवावुद्रे ॥ ७६ ॥
शिशुमारो जलकपिश्चपलाङ्गोऽसिपुच्छकः ।
ग्राहो जलकिराटश्च नक्रराजो जलाण्टकः ॥ ७७ ॥
मृतकान्तकश्च भीरुर्वृकधूर्तशयालुवञ्चकाभरुजः ।
शालामृगोऽस्थिभक्षो ग्राममृगो मण्डलः कपिलः ॥ ७८ ॥
उल्कामुखी शृगाली या दीप्तजिह्वेति सा मता ।
स्कन्धवाहस्तु शङ्कश्च शृङ्गी गौरक्षधूर्तिलः ॥ ७९ ॥
हेरम्बः कासरश्चैव रक्ताक्षः सैरिभस्तथा ।
रोमशो बहुरोमा स्यादुरणश्च पृथूदरः ॥ ८० ॥
इडिक्कस्तु बालवाह्यो वनच्छागोऽतिरोमशः ।
वरणो धूम्रशुकः स्यादुष्ट्रः शृङ्खलकस्तथा ॥ ८१ ॥
चक्रमुखः सूचिरोमा वराहः स्थूलनासिकः ।
कण्ठीरवस्तु पारीन्द्रः केसरी गजमाचलः ॥ ८२ ॥
नेत्रपिण्डो वृषाहारो मेनादः कुन्दमः स्मृतः ।
गन्धाखुर्गन्धनकुलश्चुञ्चुः पुंवृष उच्यते ॥ ८३ ॥
द्रोणोऽरिष्टो नालिजङ्घ आत्मघोषस्तु मौद्गलिः ।
गोभण्डीरः पङ्ककीरो हापुत्री राजभट्टिका ॥ ८४ ॥
गङ्गाचिल्ली तु देवट्टी विश्वका जलकुक्कुटी ।
विट्सारिका तु कुणपी गोराटी गोकिराटिका ॥ ८५ ॥
मृगेन्द्रचटको घातिपक्षी ग्राहकमारकौ ।
कुलालं कुक्कुटं प्राहुः कुक्कुभं कुहकस्वरम् ॥ ८६ ॥
कर्कराक्षः कलाटीनः खञ्जलेखस्तु खञ्जनः ।
प्रासादकुक्कुटो झल्लकण्ठो गृहकपोतकः ॥ ८७ ॥
ध्वाङ्क्षपुष्टः कलकण्ठो मधुकण्ठः कुहूमुखः ।
झम्पाशी मत्स्यरङ्कः स्याज्जलमद्गुर्मणीचकः ॥ ८८ ॥
कलविङ्कश्चित्रपृष्ठो गृहनीडो वृषायणः ।
वरण्डा चित्रपादा च चित्रनेत्रा च सारिका ॥ ८९ ॥
;p{0401}
मयूरचटको दक्षः कृकवाकुर्निशाकरः ।
शतपत्रः सितापाङ्गः प्रचलाकी च चन्द्रकी ॥ ९० ॥
किसलयमपि तरुरागं विदुर्लतायावकं प्रवालं च ।
कण्टकसंघ्यास्तरुनखसिताग्रदलसूचिराङ्किलद्रुमराः ॥ ९१ ॥
द्रोणीदलः सूचिपुष्पो जम्बूलः क्रकचच्छन्दः ।
मण्डा तिप्यफला धात्री वल्या पञ्चरसा शिवा ॥ ९२ ॥
सहस्रवीर्या विरजा भार्गवी मण्डली रुहा ।
प्रहर्षिणी निशाह्वा च लसा गन्धपलाशिका ॥ ९३ ॥
मृदुपुष्पः शूकतरुः शिरीषो विषनाशनः ।
वराहकाली कथितः सूर्यावर्तस्तु शाब्दिकैः ॥ ९४ ॥
वज्रवल्ल्यस्थिसंहारो हस्तिशुण्डी वनालिका ।
वनतिक्तस्त्रियां ग्रीष्मा तिरीटः पक्षसुन्दरः ॥ ९५ ॥
मधुपुष्पो मधूकश्च गुडपुष्पो मधुद्रुमः ।
वृत्तपुष्पः प्रावृषेण्यो हारिद्रस्तु हलिप्रियः ॥ ९६ ॥
एला त्वचिसुगन्धा च पुटिका चर्मसंभवा ।
कूष्माण्डकः पुष्यफलो घनवासश्च वेष्टकः ॥ ९७ ॥
वेषणः कासमर्द्दश्च पत्रोपस्कर इत्यपि ।
ओको दशाली प्राचीरमोघोलिरवहालिका ॥ ९८ ॥
कल्यवर्तः प्रातराशः प्रातर्भोजनमिष्यते ।
शृगालिका च डिम्भं च डमरं विद्रवोऽपि च ॥ ९९ ॥
स्कन्धफलः स्मुतुङ्गश्च नारिकेलः पुटोदकः ।
गुडदारुर्मधुतृणमसिपत्रो महारसः ॥ १०० ॥
राजालुको महाकन्दो मूलको दन्तिहस्तकः ।
क्षुद्ररसा तिक्तगुञ्जा सरघा विद्धपर्कटी ॥ १०१ ॥
क्षुद्रपत्रा च चाङ्गेरी क्षुद्राम्ला चाम्ललोणिका ।
प्राचीनामलकं रक्तं बदरामलकं तथा ॥ १०२ ॥
पिष्टसौरभमेकाङ्गं श्रीखण्डं मालयं विदुः ।
मृगनाभिर्मृगमदो गन्धशेखरमित्यपि ॥ १०३ ॥
सिताभ्रं तरुसारं च वेरकं रसकेसरम् ।
कालेयं वंशकं जोङ्गं कालीयं वरचन्दनम् ॥ १०४ ॥
तृणसारा मृत्युफला रम्भा च कदली भवेत् ।
ऊर्ध्वसितः परारुः स्यात्तथा राजपटोलकः ॥ १०५ ॥
कुङ्कुमं पीतकावेरं घुसृणं कुसुमात्मकम् ।
अरको जलकेशश्च कावारं शैवलं विदुः ॥ १०६ ॥
उन्मत्तकाहलापुष्पौ बृहत्पाटलिघाण्टिकौ ।
किंशुकः करकः पर्णी लाक्षावृक्षः सुभीरवः ॥ १०७ ॥
अमण्डपञ्चाङ्गुलवर्धमाना गन्धर्वहस्तस्त्रिपुटीफलश्च ।
रेणुः सतीलस्तृणकेतुमृत्युबीजौ किलाटी च ततः सुपर्वा ॥ १०८ ॥
कचमालो मरुद्वाहो धूमो मम्भः शिखिध्वजः ।
शाखानगरमाहुस्तद्यदभ्यर्णं पुरान्तरम् ॥ १०९ ॥
आहुर्जलकरङ्कं च जलजं सूचिकामुखम् ।
उपजिह्विकोत्पादिका च वटिरुद्देहिका दिवी ॥ ११० ॥
शुल्बमौदुम्बरं रक्तं म्लेच्छास्यं ताम्रकं विदुः ।
दुर्नामा दीर्घकोषी स्यात्पङ्कशुक्तिः सितालिका ॥ १११ ॥
आकाशमूली कुतृणं कुम्भिका जलवल्कलम् ।
शम्बूको जलडिम्बः स्याद् दुश्चरः पङ्कमण्डुकः ॥ ११२ ॥
आटीलकं तर्णकानां स्थलीषु क्रीडनं मतम् ।
यष्टिः शब्दवती धीरैः खेखीरक इति स्मृता ॥ ११३ ॥
लेखात्रयाङ्कितं भालं त्रिपताकं विदुर्बुधाः ।
अर्धचन्द्रं कर्करेटं विदुरङ्गुलितोरणम् ॥ ११४ ॥
;p{0402}
सिद्धजलं च गृहाम्लमवन्तिसोमं तुषोदकं शुक्तम् ।
नग्नाटकनिर्ग्रन्थकभदन्तदिगम्बरका नग्ने ॥ ११५ ॥
करपात्रं जलक्रीडा व्यात्युक्षी करपत्रिका ।
शराणां पत्ररचना पत्रणा परिकीर्तिता ॥ ११६ ॥
पञ्चभद्रा हयास्ते ये पञ्चस्वङ्गेषु पुष्पिताः ।
यश्चारको मुद्गभुजां स स्याद्वल्लभपालकः ॥ ११७ ॥
निगालस्थो य आवर्त्तः स हि देवमणिः स्मृतः ।
तथा वक्षसि वाहस्य श्रीवृक्षक उदाहृतः ॥ ११८ ॥
बन्धः पलाशपत्राणां शीर्षे पत्रपिशाचिका ।
सुवसन्तकशब्देन उच्यते मदनोत्सवः ॥ ११९ ॥
कर्वटं द्विशतग्राममध्ये ग्रामं मनोहरम् ।
तथा चतुःशतग्राममध्ये द्रोणमुखं विदुः ॥ १२० ॥
यद्यात्रामङ्गलं साम तदप्रतिरथं विदुः ।
शाला प्रासादशिखरे चन्द्रशालेति कीर्तिता ॥ १२१ ॥
इत्यर्धश्लोकावधिः ।
;k{पादश्लोकावधिः}
तलिनं तुच्छमित्याहुर्गृहाश्मा गृहकच्छपः ।
खसंचारि पुरं सौधं रथ्या पांशुकली भवेत् ॥ १२२ ॥
एकनटः स्यात्कथको भण्डश्चाटुपटुः स्मृतः ।
मक्षिका भम्भराली स्यात्पांशुरो दर्शकः स्मृतः ॥ १२३ ॥
देवोद्यानं तु वैभ्राजं दीपाली दीपशृङ्खला ।
सुकुमारेऽपि सोमालं विषमे स्थपुटं विदुः ॥ १२४ ॥
द्रुणहः खड्गपिधानं सारिणी च प्रणालिका ।
यज्ञस्थानं यज्ञवाटस्तृष्णा धनपिशाचिका ॥ १२५ ॥
स्मृता बाल्वङ्गिरिर्वारुः स्फुटिरिर्वारुशुक्तिका ।
नाटाम्रस्तिमिषः सेटुः कोमासिका तु जालिका ॥ १२६ ॥
पुञ्जातुकः फलेलाङ्कुस्तृणता धनुरिष्यते ।
कैरातद्रोर्ग्रहक्षामाः सिङ्घाणं काचभाजनम् ॥ १२७ ॥
दर्वटो दण्डवादी स्यात् स्तेनः शङ्कितवर्णकः ।
प्रारब्धिः करिबन्धः स्यात्कष्टस्थानं तु वारकम् ॥ १२८ ॥
भोगावली बन्दिपाठः सेतुः पूरणपिण्डलौ ।
देवद्रोणी देवयात्रा शूनाऽधोजिह्विका मता ॥ १२९ ॥
पालिः समुत्थितश्मश्रुर्मरूण्डोच्चललाटिका ।
राका दृष्टरजाः कन्या पोटा स्त्री पुंसलक्षणा ॥ १३० ॥
महत्तरो ग्रामकूटो मर्मरोऽव्यक्तनिःस्वनः ।
शिवालयः पितृवनं चिता काष्ठमठी चितिः ॥ १३१ ॥
कर्णवंशो भवेन्मञ्चः श्रीग्रहः शकुनिप्रपा ।
ताम्बूलदो वागुलिकः सुरभिः फाल्गुनानुजः ॥ १३२ ॥
ताम्बूलरागो मसुरस्तरुवारिः कृपाणकः ।
स्वागतं कुशलप्रश्नः सामीची वन्दना मता ॥ १३३ ॥
समुद्गः सम्पुटो ज्ञेयो हयस्कन्धो हयच्छटा ।
पिण्डारो महिषीपाले मसूरे च गभोलिकः ॥ १३४ ॥
काहली तरुणी प्रोक्ता छुरा तु कथिता सुधा ।
कापिल्लिका रोचनिका कालिकाऽवस्कराटिका ॥ १३५ ॥
कालिका क्षीरकीटः स्यात्खण्डपालस्तु खाण्डिकः ।
पांशुरः पीठसर्पी स्यादुल्ललो रोमशः स्मृतः ॥ १३६ ॥
;p{0403}
पूगपात्रे फरुवकं कबन्धो रुण्डमुच्यते ।
तूलिका स्यान्नवतिका स्त्यानमालस्यमुच्यते ॥ १३७ ॥
भाजनं कमठं प्रोक्तं पुण्यश्लोको नलो मतः ।
गौरवे प्रतिपत्तिः स्याद्धारिः पथिकसंहतिः ॥ १३८ ॥
यामकिन्यपि यामिस्त्री हाफिका चोपपुष्पिका ।
वातपुत्रे विटधरौ निर्माल्यं निर्मलं मतम् ॥ १३९ ॥
इन्द्रासने मता गुञ्जा गुलुञ्चो गुछको मतः ।
भोगावासो वासगृहं मेठो हस्तिपकः स्मृतः ॥ १४० ॥
मायुः पलाग्निः पललं ज्वरः स्यादजीर्णमन्त्रं धमिरामयश्च ।
तृप्तिश्च मौहित्यमुदिन्तका स्यात्क्षुत्क्षारिका भोगपिशाचिका च ॥ १४१ ॥
भोगो जलवरण्टः स्यात्कणा कुम्भीरमक्षिका ।
वहलं बार्बटः पोतस्तरालुश्चाहिपुत्रकः ॥ १४२ ॥
काहलस्तु महानादो मार्दङ्गं पत्तनं विदुः ।
स्यादरित्रं तरिरथः पात्रपालस्तुलाघटः ॥ १४३ ॥
काकिनी पणतुर्यांशे ज्वलदङ्गार उल्मुकम् ।
अयानं च स्वभावः स्यान्मञ्जिका वारसुन्दरी ॥ १४४ ॥
नीलमणिर्मसारः स्याद् गुञ्जा पाठहिका मता ।
भार्या पाणिगृहीती च दुकूलं क्षौममुच्यते ॥ १४५ ॥
ग्रन्थस्य निर्मितौ शय्या वधूटी वधुटी जनी ।
बन्दिचोरो माचलः स्यात्कुम्भिलः संधिहारकः ॥ १४६ ॥
अभ्रमुस्त्वभ्रनागस्य कुमुदस्य तु पिङ्गला ।
अङ्गना वामनस्य स्यादञ्जनस्याञ्जनावती ॥ १४७ ॥
कपिला पुण्डरीकस्यानुपमा सुप्रतीकस्य ।
शेषस्य ताम्रकर्णी च शुभ्रदन्ती सार्वभौमस्य ॥ १४८ ॥
सेवा चाटूक्तिरालोको मठो गन्त्रीरथः स्मृतः ।
चिपिटो धान्यचमसः खाजिको लाज उत्तुषः ॥ १४९ ॥
अभ्यासो गुणनीयः स्यान्माढिः पत्रशिरा मता ।
भौतो देवलकः ख्यातः खेटकं वसुनन्दके ॥ १५० ॥
पुरन्दरा तु सुरला कावेरी चार्धजाह्नवी ।
कौमुदः कार्त्तिको मासः सौभिकस्त्विन्द्रजालिकः ॥ १५१ ॥
प्रहेलकं वाचनकं वीक्षापन्नः सविस्मयः ।
कुटलं पटलं नीव्रं वीथी गृहतटी मता ॥ १५२ ॥
सर्ववेशी नटः प्रोक्तो मन्दाक्षे तु नटान्तिका ।
मृत्फली कुठिकः प्रोक्तः शालूरो वृष्टिभूः प्लवः ॥ १५३ ॥
स्वेदः सिप्रस्तनुरसस्त्वक्पुष्पं तु त्वगंकुरः ।
नवोढा नववरिका दिक्करी नवयौवना ॥ १५४ ॥
सौवर्चले च रुचकं हिङ्गुले रक्तपारदम् ।
रक्तोपलं गैरिके च पारदे सूतकं विदुः ॥ १५५ ॥
साशूकः कम्बलः ख्यात ईर्मा त्वक्कण्डुरो व्रणः ।
कपटः पारिहार्यः स्यादीर्ष्यालुः कुहनः स्मृतः ॥ १५६ ॥
ऋणमोक्षे विगणनं लग्नके ऋणमार्गणः ।
भिक्षाशित्वं तु पैशून्यं मण्डः पिच्छान्धसस्तथा ॥ १५७ ॥
वायुकेतुः क्षितिकणः स्यादास्फाले झलज्झला ।
नष्टाप्तिसूत्रे लोत्प्रं स्याद्याप्ययानं शिबीरथः ॥ १५८ ॥
;p{0404}
मल्लयात्रा माल्लवी स्यान्निर्भर्त्सनमलक्तकः ।
कौशलिका प्राभृतकमट्टकं लासकं विदुः ॥ १५९ ॥
स्वदोषाच्छादनं मक्षश्वुल्ली स्यान्मलकारिका ।
वाताश्वो भूमिपक्षः स्याद्वारुर्विजयकुञ्जरः ॥ १६० ॥
प्रभाते गोसगोसर्गा वञ्चनी लेपकामिनी ।
उत्कण्ठो गण्डकुसुमं सिद्धः सौमेऽधिको मतः ॥ १६१ ॥
वृषाकपिः शिखी शुष्मा भस्म प्रार्घटमर्घटम् ।
उष्ट्रवाही रथोऽध्युष्टो गन्त्री लघ्वी द्विवेशरा ॥ १६२ ॥
कृकणः कृमिरुद्दिष्टः शकृत्कीटेऽन्यकारुका ।
भारवाहो भारिकः स्यात्स्कन्धचापो विहङ्गिका ॥ १६३ ॥
उन्नतोऽजगरः प्रोक्तो द्विमुखाहिरहीरणिः ।
पुरोटिः पुरसंस्कारे हट्टी पुरतटी मता ॥ १६४ ॥
मृणालिनी पुटकिनी स्थासको बुद्बुदो भवेत् ।
कलाची तु प्रकोष्ठः स्याद्धस्तपुच्छस्तु कन्युषम् ॥ १६५ ॥
उत्साहः सूत्रतन्तुः स्यात्पिण्डीरो नीरसः स्मृतः ।
हरिणहृदयो भीरुः सन्देशोक्तिस्तु वाचकम् ॥ १६६ ॥
शालाजिरो वर्धमानं कुसीदं तु कलाम्बिका ।
चर्वा तलप्रहारः स्यात्कर्करं मुद्गरं विदुः ॥ १६७ ॥
गोष्ठागारेऽपि गञ्जः स्याच्चिन्तावेश्मनि दार्वटम् ।
मानग्रंथिर्भवेन्मन्तुर्निष्कुटो गृहवाटिका ॥ १६८ ॥
शैलस्य कटके दन्तस्तद्दिनं प्रतिवासरे ।
सूत्रमेव सूत्रतन्तुः कृशराऽपि तिलौदने ॥ १६९ ॥
स्यादासवेऽपि कुरसः सरकं मद्यभाजने ।
निश्चुक्कणं दन्तशाणं गोग्रन्थिः शुष्कगोमये ॥ १७० ॥
अष्टापदं नयपीठी नयस्तु जतुपुत्रकः ।
बिन्दुतन्त्रो भवेदक्षः पाञ्चाली शालिशृङ्खला ॥ १७१ ॥
प्रस्तारतलिनं शय्या रोमगुच्छः प्रकीर्णकम् ।
शिवा लोपाशिका ज्ञेया सरमा तुम्बरी शुनी ॥ १७२ ॥
पादाङ्गदो हंसकः स्यात्प्रतिकर्म प्रसाधनम् ।
कर्णपाली तु कर्णान्दूरङ्गुलीयकमूर्मिका ॥ १७३ ॥
खातभूः प्रतिकूपः स्याल्लम्भा स्याद्वाटशृङ्खला ।
कन्धरा तोरणं कण्ठी सूत्राली गलमेखला ॥ १७४ ॥
शासनं धर्मकीलः स्यात्सुकृतं शुद्रशासनम् ।
पट्टोलिका क्लृप्तकीला सिन्दुरं रक्तशासनम् ॥ १७५ ॥
रासस्तु गोदुहां क्रीडा गीतिः पारावती तथा ।
वेर्णुर्यवफलो वंशो नवीने नवकालिका ॥ १७६ ॥
मुखघण्टा हुलहुली तलाची नलपट्टिका ।
नीपो धराकदम्बः स्याद्वीरभद्रस्तु वीरणम् ॥ १७७ ॥
;p{0405}
खड्गटस्तु बृहत्काशं कोशाङ्कमित्कटं विदुः ।
गण्डीरस्तु समण्ठः स्याद्ध्रीबेरं वारिवालकम् ॥ १७८ ॥
सितोत्पलं गन्धसोमं हरिमन्थोऽतिमुक्तकः ।
कर्कारुकस्तु कालिङ्गः शृङ्गाटो जलकण्टकः ॥ १७९ ॥
हिलमोची जलब्रह्मी वायसी काकमाचिका ।
पुन्नागः केसरश्चैव चाम्पेयो नागकेसरः ॥ १८० ॥
स्याद्दोलिका च हिन्दोला ल्यावणं लवणं मतम् ।
सुखाशो राजतिमिषः कदुको राजसर्षपः ॥ १८१ ॥
सितमाषो राजमाषो मसूरो व्रीहिकाञ्चनः ।
मधुक्षीरस्तु खर्जूरः सालः शङ्कुतरुर्मतः ॥ १८२ ॥
मुस्तो राजकशेरुः स्याद्रौहिणश्चन्दनद्रुमः ।
काकमद्गुर्जलरङ्कः कोयष्टिर्जलकुक्कुभः ॥ १८३ ॥
वर्त्तिका विष्णुलिङ्गी स्याद्वनाखुः शशकः स्मृतः ।
ताम्रकृमिरिन्द्रगोपो गृहगोधा गृहालिका ॥ १८४ ॥
दिवान्धो हरिनेत्रः स्याद्गोनन्दी लक्ष्मणा मता ।
कुरङ्कुरः पुष्कराह्वो वादुलिस्तरुतूलिका ॥ १८५ ॥
कोलपुच्छस्तु कङ्कः स्याद्गर्गाटो योगनाविकः ।
ग्राम्यमद्गुरिका शृङ्गी राजशृङ्गस्तु मद्गुरः ॥ १८६ ॥
पङ्कग्राहस्तु प्रकरः शफरः श्वेतकोलकः ।
चिङ्गटस्तु महाशल्कः पोताधानं जलाण्डकम् ॥ १८७ ॥
फलकी तु चित्रफली मत्स्यराजस्तु रोहितः ।
काकोचिकस्तु काकोची वकाची वकचिञ्चिका ॥ १८८ ॥
कवयी क्रकचपृष्ठी खलेशस्तु खलेशयः ।
इल्लिशो राजशफर इञ्चाको जलवृश्चिकः ॥ १८९ ॥
दण्डपालोऽर्धशफरः कङ्कत्रोटो जलव्यथः ।
लघुगर्गस्त्रिकण्टः स्यात्सिताङ्को वालुकागडः ॥ १९० ॥
कनकपलः कुरुबिस्तः करिकवलो विधानं स्यात् ।
ब्राह्मी तु पङ्कगडकः शकुलो दण्डपालकः ॥ १९१ ॥
निचोलकं निचुलकं मन्दामणिरलिञ्जरः ।
वेदिः स्थण्डिलसितकं पन्याटो निष्कुटः स्मृतः ॥ १९२ ॥
लोपासिका खिङ्खिरी स्यात्पल्याटो निष्कुटः स्मृतः ।
अङ्केष्वेवाङ्कमङ्गानि स्मृतमुत्तानमुत्कटम् ॥ १९३ ॥
स्यान्मार्जिता रसाला च बुक्कारः सिंहनादकः ।
कर्णगूथं कर्णमलं सिंहाणं नासिकामलम् ॥ १९४ ॥
दन्तमलं पुष्पिका स्यात्कुलकं रसनामलम् ।
कारन्धमी धातुवादी दरिद्रो दुर्विधः स्मृतः ॥ १९५ ॥
;p{0406}
स्यान्मन्त्रगण्डको विद्यापक्षद्वारं खडक्किका ।
आर्द्रवस्त्रं जलार्द्रः स्याद्दोषश्चादीनवो मतः ॥ १९६ ॥
योजनं मार्गधेनुः स्यान्नल्वः किष्कुचतुःशतम् ।
चोलको बाणवारः स्यात्कूर्पासस्त्वधचोलकः ॥ १९७ ॥
नागोदरमुरस्त्राणं जङ्गात्राणं तु मङ्क्षणम् ।
स्यात्प्रासादो देवकुलं तत्तु चैत्यं विना मुखम् ॥ १९८ ॥
तृणपूली तु चञ्चा स्याद्यथार्थं तु यथातथम् ।
आघातनं वधस्थानं कारा बन्धनवेश्मनि ॥ १९९ ॥
स्कन्धाग्निः स्थूलकाष्ठाग्निस्तृणाग्निस्तु भवेत्समः ।
इङ्गलस्तु करीषाग्निर्ज्वराग्निस्त्वाधिमन्यवः ॥ २०० ॥
श्वशुरः स्वामिजनकः साधुधीर्वरवत्सला ।
भगसार्थस्तथा विद्धो हेलावुकोऽश्वविक्रयी ॥ २०१ ॥
गृहवित्तो गृहपतिस्तुम्बीपुष्पं लताम्बुजम् ।
लोहिका खरसोनिः स्यान्निलिम्पस्त्रिदशः स्मृतः ॥ २०२ ॥
गण्डूपदी भूलता स्यान्मण्डरी घुर्घुरी मता ।
स्वच्छट्यङ्गुलिसंदेशो लङ्घनं चापतर्पणम् ॥ २०३ ॥
गजढक्का मदाम्नातः शृङ्गारो गजमण्डनम् ।
प्रतिमो रणरङ्कः स्याद्वण्टकः कदरः शृणिः ॥ २०४ ॥
वीची जललता भृण्डिः फेणाग्रं बुद्बुदं विदुः ।
जम्बालो जलकल्कः स्यादारणिः कुलदण्डकः ॥ २०५ ॥
विनाकृतं विरहितं गण्डूषो मुखपूरणे ।
काष्ठमल्लः शवयानं कषायस्तुवरो रसः ॥ २०६ ॥
पर्वावधिः परग्रन्थिः पिञ्जोला पत्रकाहला ।
गोहल्लं छगलं गोविट् परिघो द्वारकण्टकः ॥ २०७ ॥
कर्करं चूर्णखण्डे स्यात् कर्कसारं करम्भकम् ।
स्पर्द्धायामपि संहर्षः कठोरं कर्करं विदुः ॥ २०८ ॥
बन्दीं करबकीमाहुरासन्दी लघुखाट्विका ।
घटराजः स्मृतः कुम्भो गर्गरी कलशिर्मता ॥ २०९ ॥
विदुरजन्यमुत्पातं निर्घाते व्योममुद्गरः ।
पर्यन्तिका गुणभ्रंशो गागेष्टी कटशर्करा ॥ २१० ॥
उल्का कुलुक्कगुञ्जा स्यात्कुलक्कस्तालमर्दलः ।
सूत्रकोणे डमरुकं सूत्रवीणा च लाबुकी ॥ २११ ॥
मेलानन्दो मसिमणिर्लेखनी वर्णतूलिका ।
धातूपलः कठिनिका मेला पत्राञ्जनं मसिः ॥ २१२ ॥
तर्कुटी सूत्रला तर्कुर्झल्लोलस्तर्कुलासकः ।
वर्तुला तर्कुपीठी स्यात्पञ्जिका तूलनालिका ॥ २१३ ॥
निर्वेष्टनं नाडिचीरं दग्धेष्टका स्याज्झामकम् ।
दोला प्रेङ्खा पुमान्प्रेङ्खा वारासनं वास्सदनम् ॥ २१४ ॥
पिष्टवर्तिस्तु चमसश्चित्रापूपश्चरुव्रणः ।
म्लेच्छितं परभाषायां लुण्टिका न्यायसारिणी ॥ २१५ ॥
;p{0407}
शूकापूट्टस्तृणमणिश्छात्रगण्डः पदाद्यवित् ।
कोशकारः काष्ठतन्तुर्घुणः स्यात्काष्ठलेखकः ॥ २१६ ॥
विषशृङ्गी भङ्गरोलो वरोलस्तृणषट्पदः ।
तुदुमो रन्ध्रबभ्रुः स्याद्दीना लिङ्गालिका स्मृता ॥ २१७ ॥
विदारुः क्रकचपादो द्रुणश्चालिश्च वृश्चिकः ।
पद्माक्षं पद्मबीजं च कर्णिका बीजमातृका ॥ २१८ ॥
रङ्गमाता भवेल्लाक्षा धीलटिर्दुहिता मता ।
चाटलोलश्च दुल्लोलो जेङ्गटो दोहदः स्मृतः ॥ २१९ ॥
धौताञ्जली धौतबली वज्रकं दुग्धपाचनम् ।
चित्रोक्तिः पुष्पशकटी चासेचनमतृप्तिकृत् ॥ २२० ॥
कालरात्रिर्भीमरथी अस्वाध्यायो निराकृतिः ।
ब्रह्मवादः श्रुतादानं विश्वकद्रुरखेटिकः ॥ २२१ ॥
हिंसालुकः खादुकः श्वा योगितोऽलर्क इष्यते ।
द्रगडस्तूर्यगण्डः स्यादादर्शो मुकुरः स्मृतः ॥ २२२ ॥
राहूत्सृष्टो रसोनः स्याद्वङ्गरी कोलनासिका ।
मयण्टस्तृणहर्म्यः स्यात्कुत्रङ्गो मञ्चमण्डपः ॥ २२३ ॥
स्रवद्रङ्गः पणग्रन्थिश्चितिका कटिशृङ्खला ।
विशारदः प्रसिद्धे स्याच्छ्रीर्लक्ष्मीरिन्दिरा मता ॥ २२४ ॥
;c{इति पादावधिः ॥}
;k{नानावधिः}
;c{अथ नानार्थः ॥}
प्राक् शालावृकशब्दादर्धैः पादैरतः परं शब्दाः ।
नानार्था अपि शब्दैर्गजशब्दात्प्रभृति विज्ञेयाः ॥ २२५ ॥
क्षीरदारो गुडक्षोदे गुडे मधुनि चेष्यते ।
कृपीटपानमिच्छन्ति के निपाते च वारिधौ ॥ २२६ ॥
रसाला रसनायां स्यान्मथिते दध्नि पाणिना ।
पाञ्चलोहे श्रुतिकठः प्रायश्चित्ते सरीसृपे ॥ २२७ ॥
विटोऽद्रौ लवणे षिड्गे मूषिके खदिरेऽपि च ।
वितण्डा करवीर्यां च दर्वीवादप्रभेदयोः ॥ २२८ ॥
कारण्डवे करण्डः स्यान्मधुकोषे दलाढके ।
खटः श्लेष्मण्यन्धकूपे प्रहारान्तरटङ्कयोः ॥ २२९ ॥
पिच्छा पूगच्छटकोषे चोलिका फणिलालयोः ।
पिच्छलाः स्फोटिकावात्यारामावाताखुपांशवः ॥ २३० ॥
धराङ्कुरो वायुफले नासीरे शीकरेऽपि च ।
कोट्टारो नागरे कूपे पुष्करिण्यां च पाटके ॥ २३१ ॥
नागाञ्जना नागयष्टिः करिसुन्दरिका क्वचित् ।
पूत्यण्डः पूतिकीटे च गन्धकीटे च दृश्यते ॥ २३२ ॥
कटुकायां कञ्चटके कथिता शकुलादनी ।
क्रौञ्चादनस्तु घेञ्चुल्यां चिञ्चटकमृणालयोः ॥ २३३ ॥
सन्तानिका क्षीररसे तथा मर्कटजालके ।
खड्गधेनुफले फेने पराञ्जस्तैलयन्त्रके ॥ २३४ ॥
भालाङ्को लोहिते दृष्टः करपत्रे च कच्छपे ।
संकरोऽग्निचिटत्कारे संमार्जन्यपसारिते ॥ २३५ ॥
गोधा कलम्बिकादन्तिवधूषु च कटंभरा ।
पङ्कारः शैवले सेतौ सोपाने जलकुब्जके ॥ २३६ ॥
पृष्ठशृङ्गीति शब्दोऽयं दंशभीरौ पृथूदरे ।
मेघपुष्पं तु नादेये पिण्डाभ्रे सलिले विदुः ॥ २३७ ॥
पित्तज्वरे कुलालस्य पवने कूटपालकः ।
स्तनवृन्ते पिप्पलकं तथा सीवनसूत्रके ॥ २३८ ॥
पाटलिकोऽन्यमर्मज्ञे छात्रे स्यात्कालदेशिनि ।
जिह्वापो वृषदंशे च स्यादिन्द्रमहकर्मणि ॥ २३९ ॥
;p{0408}
लाभे कामगुणे रूपे आमिषाख्या तु भोजने ।
छायापथे तु दूर्वायां हरितालीध्वनिर्मतः ॥ २४० ॥
मालुधानश्चित्रसर्पे महापद्मेऽपि दृश्यते ।
उन्मत्ते क्षपणेऽनर्थकरे कार्यपुटध्वनिः ॥ २४१ ॥
सांघाटिकां विदुर्युग्मे कुट्टन्यां जलकण्टके ।
शराहते च सर्पे च प्रचालकं प्रचक्षते ॥ २४२ ॥
चन्द्रिकायामब्जधूलौ रक्ताङ्गे हरिचन्दनम् ।
स्त्रीरत्ने च हरिद्रायां लाक्षायां वरवर्णिनी ॥ २४३ ॥
कृकलासे चित्रकोले तृणगोधाध्वनिं विदुः ।
डिम्भं भये च कलले फुप्फुसे च प्रचक्षते ॥ २४४ ॥
धुन्धुमारः शक्रगोपे गृहधूमे गृहालिके ।
तिक्तपर्वा हिलमोचीगुडूचीमधुयष्टिषु ॥ २४५ ॥
जलबिल्वः कर्कटके पञ्चाङ्गे जलवल्कले ।
चोलकी नागरङ्गे च करीरे किष्कुपर्वणि ॥ २४६ ॥
कुलालचक्रे वहने दण्डारः शरयन्त्रके ।
दिग्जये वरयात्रायां दण्डयात्रां विदुर्बुधाः ॥ २४७ ॥
उष्ट्रे दासीसुते चैव दासेरक इति स्मृतः ।
जलगुल्मो जलावर्ते कच्छपे जलचत्वरे ॥ २४८ ॥
काहलावेणुवीणादिध्वनिं नानाध्वनिं विदुः ।
घोङ्घे कारुण्डिकायां च जाहकध्वनिरिष्यते ॥ २४९ ॥
विद्यादुत्कलिकाशब्दमुत्कण्ठावीचिवाचकम् ।
दृष्टिविषे सूचके च द्विजिह्वः परिकीर्तितः ॥ २५० ॥
मदमत्ताविदग्धस्त्रीनर्तकीषु च वाणिनी ।
रोमावलीमेघमालाकरटीषु च कालिका ॥ २५१ ॥
मञ्जुलो मधुरे कुञ्जे जलरङ्गे जलाञ्चले ।
अनुकम्पस्तरस्वी स्यात्तपस्वी च धृतव्रतः ॥ २५२ ॥
;c{इति नानार्थार्धश्लोकावधिः ॥}
;k{नानार्थः}
शालावृकौ कपिश्वानौ निष्ठुरः कठिनेऽत्रपे ।
छर्दनोऽलम्बुषे निम्बे व्युष्टं कल्पे तथोषिते ॥ २५३ ॥
इक्षौ करीरे कोषाङ्गे व्रणचिह्ने घुणे किणः ।
नर्मठं चञ्चुके पिङ्गे छेकः षडङ्घ्रिवक्रयोः ॥ २५४ ॥
धाराटश्चातके वाहे लञ्जः स्यात्पङ्गुकच्छयोः ।
नर्मटः खर्परे सूर्ये गोकीलो मुशले हले ॥ २५५ ॥
भुण्डिरीर्वारुकूष्माण्डौ फाणिर्गुडकलम्बयोः ।
तण्डकः खञ्जने फेने लट्वा शिन्यां खगान्तरे ॥ २५६ ॥
गजेऽपि नागमातङ्गौ विशेषस्तिलकेऽपि च ।
निष्पारः शूर्पवातेऽपि सूत्रकण्ठो द्विजेऽपि च ॥ २५७ ॥
विदुष्यपि स्मृतो वेधाः पुरं देहेऽपि दृश्यते ।
स्वरेऽपि कण्ठ आख्यातः शरत्संवत्सरेऽपि च ॥ २५८ ॥
लाक्षाऽपि जतुका प्रोक्ता लग्नाचार्येऽपि हिण्डिकः ।
नौसेचनेऽपि वारुण्डः पादालिन्देऽपि पङ्किलः ॥ २५९ ॥
कचो गीष्पतिपुत्रेऽपि कुन्देऽपि भ्रमरो बटौ ।
भाण्डं भूषणमात्रेऽपि रुधिरं कुङ्कुमेऽपि च ॥ २६० ॥
गोमेदकेऽपि गङ्गोलः कटाहो निरयोऽपि च ।
मरीचेऽपि भवेत्कृष्णः शूनाङ्गे गुणिका भवेत् ॥ २६१ ॥
शस्त्र्यामपि खड्गधेनुर्निस्त्रिंशोऽकरुणेऽपि च ।
स्कन्धावारेऽपि कटको बिन्दुस्तु विदुरेऽपि च ॥ २६२ ॥
जलसूचिर्जलौकाऽपि वेश्यायामपि पिङ्गला ।
अहिरप्युदावर्ते विशाखाऽपि खनित्रकः ॥ २६३ ॥
भ्रमरः कामुकेऽपि स्यादङ्गीकारेऽपि चाथकिम् ।
महालयेऽपि तीर्थः स्याद्भोजनेऽपि तथाऽऽह्निकम् ॥ २६४ ॥
बलिश्चामरदण्डेऽपि पादपीठेऽपि पादपः ।
गोदन्तो हरितालेऽपि वानीरश्चित्रकेऽपि च ॥ २६५ ॥
आधारेऽप्याश्रयः प्रोक्तो गजसङ्घेऽप्यवग्रहः ।
कथिताऽऽप्ता जटायां च मार्गणेऽपि मृगः क्वचित् ॥ २६६ ॥
मूषिकाऽपि भवेद्धीना जटाटङ्को हरेऽपि च ।
अश्रमकृतेऽपि फाण्टं मृद्भाण्डेऽप्युष्ट्रिका भवेत् ॥ २६७ ॥
अङ्गसादेऽपि सदनं वनदावेऽपि झिञ्झिमः ।
दन्तमांसेऽपि वेला स्याच्छुल्कं नारीधनेऽपि च ॥ २६८ ॥
निम्बेऽपि हिङ्गुनिर्यासो मेलानन्देऽपि वार्दलम् ।
लेखन्यां कर्णिकाऽपि स्यात्कटिन्यामपि वर्णिका ॥ २६९ ॥
पटलेऽपि कासमर्दो दिष्टं दैवेऽपि कीर्तितम् ।
दाडिमेऽपि च हिण्डीरं वंशो वेणौ कुलेऽपि च ॥ २७० ॥
;c{इति नानार्थः ।}
;p{0409}
;end{}
{{
काव्यादीनामनन्तत्वाच्छब्दादीनां विशेषतः ।
क्व कदा केन किं दृष्टमिति को वेदितुं क्षमः ॥ २७१ ॥
अतः शब्दः क्व दृष्टोऽयमर्थतश्चापि कीदृशः ।
इति काव्यमलीकं स्यान्मात्सर्यमलिनात्मनाम् ॥ २७२ ॥
शब्दार्णव उत्पलिनी संसारावर्त इत्यपि ।
कोषा वाचस्पतिव्याडिविक्रमादित्यनिर्मिताः ॥ २७३ ॥
आदाय सारमेतेषामन्येषां च विशेषतः ।
हारावली निर्मितेयं मया द्वादशवत्सरैः ॥ २७४ ॥
उपास्य सर्वज्ञमननतमीशं भूत्वाऽतिथिः श्रीधृतिसिंहवाचाम् ।
हारावली द्वादशमासमानैर्विनिर्मितेयं पुरुषोत्तमेन ॥ २७५ ॥
नानाकाव्यपुराणनाटककथाकोषेतिहासस्मृति-
ज्योतिःशास्त्रगजाश्वमानवभिषक्कोषान्प्रयत्नादियम् ।
दृष्ट्वाऽन्यानि च शाब्दिकैः सह कृता हारावली यत्नतः
कर्तव्योऽत्र न संशयः सुमनसश्शब्दार्थलिङ्गेष्वपि ॥ २७६ ॥
सुधिया जनमेजयेन यत्नाद् धृतिसिंहेन समं निरूपितेयम् ।
विदितो बहुदृश्वभिः कवीन्द्रैर्भुवि कोषानुमतः श्रमो मदीयः ॥ २७७ ॥
हित्वा महाशाब्दिकताभिमानं मात्सर्यमन्यत्र मुहुर्निधाय ।
हारावलीं यः प्रकरोति कण्ठे विदग्धगोष्ठीषु परं स भाति ॥ २७८ ॥
इति श्रीमहामहोपाध्यायपुरुषोत्तमदेवप्रणीता हारावली पर्यवसिता ॥
}}