-
Notifications
You must be signed in to change notification settings - Fork 0
/
MAU-text.txt
executable file
·6 lines (3 loc) · 2.53 KB
/
MAU-text.txt
1
2
3
4
5
6
अथान्यत्राप्युक्तमन्नं वा अस्य सर्वस्य योनिः कालश्चान्नस्य सूर्यो योनिः कालस्य । तस्यैतद्रूपं यन्निमेषादिकालात्संभृतं द्वादशात्मकं वत्सरमेतस्याग्नेयमर्धमधं वारुणम् । मघाद्यं श्रविष्ठार्धमाग्नेयं क्रमेणोत्क्रमेण सार्पाद्यं श्रविष्ठार्धान्तंसौम्यम् । तत्रैकैकमात्मनो नवांशकं संचारकविधं सौम्यत्वादेतत्प्रमाणमनेनैव प्रमीयते हि कालः । न विना प्रमाणेन प्रमेयस्योपलब्धिः । प्रमेयोऽपिप्रमाणतां पृथक्त्वादुपैत्यात्मसंबोधनार्थमित्येवं ह्याह । यावत्यो वै कालस्यकलास्तावतीषु चरत्यसौ यः कालं ब्रह्मेत्युपासीत कालस्तस्याति-दूरमपसरतीत्येवंह्याह कालात्स्रवन्ति भूतानि कालाद्वद्धिं प्रयान्ति च । काले चास्तं नियच्छन्तिकालो मूर्तिरमूर्तिमा ॥ ६-१४
अथ॑ कि॒मेतैर्वा॒र्ण्याना॑ꣳ शो॒षणं॑ म॒हार्णवानाꣳ शिख॒रिणां प्र॒पत॑नं ध्रु॒वस्य॑ प्रच॒लन॑ꣳ व्र॒श्चन॒ꣳ वात॑रज्जूनां नि॒मज्ज॑नं पृथि॒व्याः स्था॒नाद॑पस॒रण॑ꣳ..॥१-४ मै० आ०
अथ किमेतैर्वार्ण्यानां शोषणं महार्णवानां शिखरिणां प्रपतनं ध्रुवस्य प्रचलनं व्रश्चनं वातरज्जूनां निमज्जनं पृथिव्याः स्थानादपसरणं..॥